परिचय — Hatha Pradipika - Introduction
आसन Asana
1.1–4 श्री आदिनाथाय नमोऽस्तु तस्मै येनोपदिष्टा हठयोगविद्या । विभ्राजते प्रोन्नतराजयोगमारोढुमिच्छोरधिरोहिणीव 1.5–10 श्री आदिनाथमत्स्येन्द्रशाबरानन्दभैरवा: । चौरङ्गीमीनगोरक्षविरुपाक्षविलेशय: 1.11–14 गुप्त विद्या हठविद्या परं गोप्या योगिनां सिद्धिमिच्छताम् 1.15–16 अत्याहार: प्रयासश्च प्रजल्पो नियमाग्रह: । जनसङ्गश्च लौल्यं च षड्भिर्योगो विनश्यति 1.17–18 अहिंसा सत्यमस्तेयं ब्रह्मचर्यं क्षमा धृति: । दयार्जवं मिताहार: शौचं चैव यमा: दश 1.19–20 आसन वर्णन हठस्य प्रथमाङ्गत्वादासनं पूर्वमुच्यते 1.21–27 जानूर्वोरन्तरे सम्यक्कृत्वा पादतले उभे । ऋजुकाय: समासीन: स्वस्तिकं तत् प्रचक्षते 1.28–30 वामोरुमूलार्पित दक्षपादं जानोर्बहिर्वेष्टितवामपादम् । प्रगृह्य तिष्ठेत्परिवर्तिताङ्ग: श्री मत्स्यनाथोदितमासनं स्यात् 1.31–34 इति पश्चिमतान मासनाग्र्यं पवनं पश्चिमवाहिनं करोति । उदरं जठरानलस्य कुर्यादुदरे काश्यमरोगतां च पुंसाम् 1.35–36 चतुरशीत्यासनानि शिवेन कथितानि वै । तेभ्यश्चतुष्कमादाय सारभूतं ब्रवीम्यहम् 1.37–40 योनिस्थानकमन्ध्रिमूलघटितं कृत्वा दृढं विन्यसेत् मेढ्रे पादमथैकमेव हृदये कृत्वा हनुं सुस्थिरम् 1.41–45 चतुरशीतिपीठेषु सिद्धमेव सदाभ्यसेत् । द्वासप्ततिसहस्त्राणां नाड़ीनां मलशोधनम् 1.46–50 वामोरूपरि दक्षिणं च चरणं संस्थाप्य वामं तथा दक्षोरूपरि, पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् 1.51–59 पद्मासने स्थितो योगी नाडीद्वारेण पूरितम् । मारुतं धारयेद्यस्तु स मुक्तो नात्र संशय: 1.60–65 सुस्निग्धमधुराहारश्चतुर्थांशविवर्जित: । भुज्यते शिवसंप्रीत्यै मिताहार: स उच्यते 1.66–69 युवा वृद्धोऽतिवृद्धो वा व्याधितो दुर्बलोऽपि वा । अभ्यासात्सिद्धिमाप्नोति सर्वयोगेष्वतन्द्रित:
प्राणायाम Pranayama
2.1–3 अथासने दृढे योगी वशी हितमिताशन: । गुरूपदिष्टमार्गेण प्राणायामान् समभ्यसेत 2.4–10 मलाकुलासु नाड़ीषु मारुतो नैव मध्यग: । कथं स्यादुन्मनीभाव: कार्यसिद्धि: कथं भवेत् 2.11–16 प्रातर्मध्यन्दिने सायमर्धरात्रे च कुम्भकान् । शनैरशीति पर्यन्तं चतुर्वारं समभ्यसेत् 2.17–20 हिक्का श्वासश्च कासश्च शिर:कर्णाक्षिवेदना: । भवन्ति विविधा: रोगा: पवनस्य प्रकोपत: 2.21–23 मेद:श्लेष्माधिक: पूर्वं षट्कर्माणि समाचरेत् । अन्यस्तु नाचरेत्तानि दोषाणां समभावत: 2.24–26 चतुरङ्गुलविस्तारं हस्तपञ्चदशायतम् । गुरु प्रदिष्ट मार्गेण सिक्तं वस्त्रं शनैर्ग्रसेत् 2.27–30 नाभिदध्नजले पायुन्यस्तनालोत्कटासन: । आधाराकुन्चनं कुर्यात् क्षालनं बस्तिकर्म तत् 2.31–35 कपालशोधनी चैव दिव्यदृष्टिप्रदायिनी । जत्रूर्ध्वजातरोगौघं नेतिराशु निहन्ति च 2.36–37 भस्त्रावल्लोहकारस्य रेचपूरौ ससंभ्रमौ । कपालभातिर्विख्याता कफदोषविशोषणी 2.38–40 प्राणायामैरेव सर्वे प्रशुष्यन्ति मला इति । आचार्याणां तु केषाञ्चिदन्यत् कर्म न संमतम् 2.41–43 विधिवत् प्राणसंयामैर्नाडीचक्रे विशोधिते । सुषुम्नावदनं भित्वा सुखाद्विशति मारुत: 2.44–46 सूर्यभेदनमुज्जायी सीत्कारी शीतली तथा । भस्त्रिका भ्रामरी मूर्च्छा प्लाविनीत्यष्टकुम्भका: 2.47–50 अपानमूर्ध्वमुत्थाप्य प्राणं कण्ठादधो नयेत् । योगी जराविमुक्त: सन् षोडशाब्दवया भवेत् 2.51–53 मुखं संयम्य नाडीभ्यामाकृष्य पवनं शनै: । यथा लगति कण्ठात्तु हृदयावधि सस्वनम् 2.54–58 सीत्कां कुर्यात्ततथा वक्त्रे घ्राणेनैव विजृम्भिकाम् । एवमभ्यासयोगेन कामदेवो द्वितीयक: 2.59–64 ऊर्वोरूपरि संस्थाप्य शुभे पादतले उभे । पद्मासनं भवेदेतत् सर्वपापप्रणाशनम् 2.65–67 वातपित्तश्लेष्महरं शरीराग्निविवर्धनम् 2.68–70 वेगाद् घोषं पूरकं भृङ्गनादम् भृङ्गीनादं रेचकं मन्दमन्दम् । योगीन्द्राणामेवमभ्यासयोगात् चित्ते जाता काचिदानन्दलीला 2.71–78 प्राणायामस्त्रिधा प्रोक्तो रेचपूरककुम्भकै: । सहित: केवलश्चेति कुम्भको द्विविधो मत:
मुद्रा Mudra
3.1–3 सशैलवनधात्रीणां यथा धारोऽहिनायक: । सर्वेषां योगतन्त्राणां तथा धारो हि कुण्डली 3.4–9 सुषुम्णा शून्यपदवी ब्रह्मरन्ध्र महापथ: । श्मशानं शाम्भवी मध्यमार्गर्श्चेत्येकवाचका: 3.10–13 पादमूलेन वामेन योनिं सम्पीड्य दक्षिणम् । प्रसारितं पादं कृत्वां कराभ्यां धारयेद् दृढम् 3.14–18 महाक्लेशादयो दोषा: क्षीयन्ते मरणादय: । महामुद्रां च तेनैव वदन्ति विबुधोत्तमा: 3.19–24 पाषि्र्ण वामस्य पादस्य योनिस्थाने नियोजयेत् । वामोरूपरि संस्थाप्य दक्षिणं चरणं तथा 3.25–29 रूपलावण्य सम्पन्ना यथा स्त्री पुरुषं बिना । महामुद्रामहाबन्धौ निष्फलौ वेधवर्जितौ 3.30–31 एतत् त्रयं महागुह्यं जरामृत्युविनाशमम् । वह्निवृद्धिकरं चैव ह्यणिमादिगुणप्रदम् 3.32–37 कपालकुहरे जिह्वा प्रविष्टा विपरीतगा । भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी 3.38–43 रसनामूर्ध्वगां कृत्वा क्षणार्धमपि तिष्ठति । विषैर्विमुच्यते योगी व्याधिमृत्युजरादिभि: 3.44–49 ऊर्ध्वजिह्व: स्थिरो भूत्वा सोमपानं करोति य: । मासार्धेन न सन्देहो मृत्युं जयति योगवित् 3.50–54 चुम्बन्ती यदि लम्बिकाग्रमनिशं जिह्वारसस्यन्दिनी सक्षारा कटुकाम्लदुग्धसदृशी मध्वाज्यतुल्या तथा 3.55–60 बद्धो येन सुषुम्नायां प्राण स्तूड्डीयते यत: । तस्मादुड्डीयनाख्योऽयं योगिभि: समुदाहृत: 3.61–69 पार्षि्णभागेन सम्पीड्य योनिमाकुञ्चयेद्गुदम् । अपानमूर्ध्वमाकृष्य मूलबन्धोऽभिधीयते 3.70–76 कण्ठ माकुञ्च्य हृदये स्थापयेच्चिबुकं दृढम् । बन्धो जालन्धराख्योऽयं जरामृत्युविनाशक: 3.77–82 यत्किञ्चित् स्त्रवते चन्द्रादमृतं दिव्यरूपिण: । तत् सर्वं ग्रसते सूर्यस्तेन पिण्डो जरायुत: 3.83–86 स्वेच्छया वर्तमानोऽपि योगोक्तैर्नियमैर्विना । वज्रोलीं यो विजानाति स योगी सिद्धिभाजनम् 3.87–91 नारीभगे पतद् बिन्दुमभ्यासेनोर्ध्वमाहरेत् । चलितं च निजं बिन्दुमूर्ध्वाकृष्य रक्षयेत् 3.92–103 सहजोलीश्चामरोलीर्वज्रोल्या एव भेदत: । जले सुभस्म निक्षिप्य दग्धगोमयसम्भवम् 3.104–111 कुटिलाङ्गी कुण्डलिनी भुजङ्गी शक्तिरीश्वरी । कुण्डल्यरुन्धती चैते शब्दा: पर्यायवाचका: 3.112–118 अवस्थिता चैव फणावती सा प्रातश्च सायं प्रहरार्धमात्रम् । प्रपूर्ये सूर्यात् परिधानयुक्त्या प्रगृह्य नित्यं परिचालनीया 3.119–125 तस्मात् सञ्चालयेन्नित्यं सुख सुप्ता मरुन्धतीम् । तस्या: सञ्चालनेनैव योगी रोगै: प्रमुच्यते 3.126–130 राजयोगं विना पृथ्वी राजयोगं विना निशा । राजयोगं विना मुद्रा विचित्रापि न शोभते
समाधि Samadhi
4.1–7 नमः शिवाय गुरवे नादबिन्दुकलात्मने । निरञ्जनपदं याति नित्यं यत्र परायण: 4.8–10 राजयोगस्य माहात्म्यं को वा जानाति तत्त्वतः । ज्ञानं मुक्ति: स्थिति: सिद्धिर्गुरूवाक्येन लभ्यते 4.11–17 उत्पन्नशक्तिबोधस्य त्यक्तनि: शेषकर्मण: । योगिन: सहजावस्था स्वयमेव प्रजायते 4.18–24 द्वासप्तति सहस्त्राणि नाडीद्वाराणि पञ्जरे । सुषुम्ना शाम्भवी शक्ति: शेषास्त्वेव निरर्थका: 4.25–30 तत्रैकनाशादपरस्य नाश: एकप्रवृत्तेरपरप्रवृत्ति: । अध्वस्तयोश्चेन्द्रियवर्गवृत्ति: प्रध्वस्तयोर्मोक्षपदस्य सिद्धि: 4.31–34 प्रनष्टश्वासनि:श्वास: प्रध्वस्तविषयग्रह: । निश्चेष्टो निर्विकारश्च लयो जयति योगिनाम् 4.35–42 वेदशास्त्रपुराणानि सामान्यगणिका इव । एकैक शाम्भवी मुद्रा गुप्ता कुलवधूरिव 4.43–50 सव्यदक्षिणनाडिस्थो मध्ये चरति मारुत: । तिष्ठते खेचरी मुद्रा तस्मिन् स्थाने न संशय: 4.51–64 बाह्यावायुर्यथा लीनस्तथा मध्यो न संशय: । स्वस्थाने स्थिरतामेति पवनो मनसा सह 4.65–77 अशक्यतत्त्वबोधानां मूढानामपि सम्मतम् । प्रोक्तं गोरक्षनाथेन नादोपासनमुच्यते 4.78–86 अस्तु वा मास्तु वा मुक्तिरत्रै वाखण्डितं सुखम् । लयोद् भवमिदं सौख्यं राजयोगादवाप्यते 4.87–93 महति श्रूयमाणेऽपि मेघभेर्यादिके ध्वनौ । तत्र सूक्ष्मात् सूक्ष्मतरं नादमेव परा मृशेत् 4.94–100 नादोन्तरङ्गसारङ्गबन्धने वागुरायते । अन्तरङ्कुरङ्गस्य वधे व्याधायतेऽपि च 4.101–106 तावदाकाशसङ्कल्पो यावच्छब्द: प्रवर्तते । नि:शब्दं तत् परं ब्रह्म परमात्मेति गीयते 4.107–114 सर्वावस्थाविनिर्मुक्त: सर्वचिन्ताविवर्जित: । मृतवत्तिष्ठते योगी स मुक्तो नात्र संशय: